✳ Prayer & Chant

१

Dakshinamurthy Ashtakam

Hindi script

उपासकानां यदुपासनीय- -मुपात्तवासं वटशाखिमूले । तद्धाम दाक्षिण्यजुषा स्वमूर्त्या जागर्तु चित्ते मम बोधरूपम् ॥ १ ॥ अद्राक्षमक्षीणदयानिधान- -माचार्यमाद्यं वटमूलभागे । मौनेन मन्दस्मितभूषितेन महर्षिलोकस्य तमो नुदन्तम् ॥ २ ॥ विद्राविताशेषतमोगणेन मुद्राविशेषेण मुहुर्मुनीनाम् । निरस्य मायां दयया विधत्ते देवो महांस्तत्त्वमसीति बोधम् ॥ ३ ॥ अपारकारुण्यसुधातरङ्गै- -रपाङ्गपातैरवलोकयन्तम् । कठोरसंसारनिदाघतप्तान् मुनीनहं नौमि गुरुं गुरूणाम् ॥ ४ ॥ ममाद्यदेवो वटमूलवासी कृपाविशेषात्कृतसन्निधानः । ओङ्काररूपामुपदिश्य विद्या- -माविद्यकध्वान्तमपाकरोतु ॥ ५ ॥ कलाभिरिन्दोरिव कल्पिताङ्गं मुक्ताकलापैरिव बद्धमूर्तिम् । आलोकये देशिकमप्रमेय- -मनाद्यविद्यातिमिरप्रभातम् ॥ ६ ॥ स्वदक्षजानुस्थितवामपादं पादोदरालङ्कृतयोगपट्‍टम् । अपस्मृतेराहितपादमङ्गे प्रणौमि देवं प्रणिधानवन्तम् ॥ ७ ॥ तत्त्वार्थमन्ते वसतामृषीणां युवाऽपि यः सन्नुपदेष्टुमीष्टे । प्रणौमि तं प्राक्तनपुण्यजालै- -राचार्यमाश्चर्यगुणाधिवासम् ॥ ८ ॥ एकेन मुद्रां परशुं करेण करेण चान्येन मृगं दधानः । स्वजानुविन्यस्तकरः पुरस्ता- -दाचार्यचूडामणिराविरस्तु ॥ ९ ॥ आलेपवन्तं मदनाङ्गभूत्या शार्दूलकृत्त्या परिधानवन्तम् । आलोकये कञ्चन देशिकेन्द्र- -मज्ञानवाराकरवाडवाग्निम् ॥ १० ॥ चारुस्मितं सोमकलावतंसं वीणाधरं व्यक्तजटाकलापम् । उपासते केचन योगिनस्त्वा- -मुपात्तनादानुभवप्रमोदम् ॥ ११ ॥ उपासते यं मुनयः शुकाद्या निराशिषो निर्ममताधिवासाः । तं दक्षिणामूर्तितनुं महेश- -मुपास्महे मोहमहार्तिशान्त्यै ॥ १२ ॥ कान्त्या निन्दितकुन्दकन्दलवपुर्न्यग्रोधमूले वसन् कारुण्यामृतवारिभिर्मुनिजनं सम्भावयन्वीक्षितैः । मोहध्वान्तविभेदनं विरचयन् बोधेन तत्तादृशा देवस्तत्त्वमसीति बोधयतु मां मुद्रावता पाणिना ॥ १३ ॥ अगौरगात्रैरललाटनेत्रै- -रशान्तवेषैरभुजङ्गभूषैः । अबोधमुद्रैरनपास्तनिद्रै- -रपूर्णकामैरमरैरलं नः ॥ १४ ॥ दैवतानि कति सन्ति चावनौ नैव तानि मनसो मतानि मे । दीक्षितं जडधियामनुग्रहे दक्षिणाभिमुखमेव दैवतम् ॥ १५ ॥ मुदिताय मुग्धशशिनावतंसिने भसितावलेपरमणीयमूर्तये । जगदिन्द्रजालरचनापटीयसे महसे नमोऽस्तु वटमूलवासिने ॥ १६ ॥ व्यालम्बिनीभिः परितो जटाभिः कलावशेषेण कलाधरेण । पश्यल्ललाटेन मुखेन्दुना च प्रकाशसे चेतसि निर्मलानाम् ॥ १७ ॥ उपासकानां त्वमुमासहायः पूर्णेन्दुभावं प्रकटीकरोषि । यदद्य ते दर्शनमात्रतो मे द्रवत्यहो मानसचन्द्रकान्तः ॥ १८ ॥ यस्ते प्रसन्नामनुसन्दधानो मूर्तिं मुदा मुग्धशशाङ्कमौलेः । ऐश्वर्यमायुर्लभते च विद्या- -मन्ते च वेदान्तमहारहस्यम् ॥ १९ ॥ इति श्रीमच्छङ्कराचार्य कृत श्री दक्षिणामूर्ति स्तोत्रम् ।

Meaning · English summary

A hymn honoring Dakshinamurti as the teacher and exploring the Self, the world and knowledge from an Advaita perspective.

Categories

← Browse prayers