✳ Prayer & Chant

श्री दत्तात्रेय शान्ति स्तोत्रम्

Dattatreya Shanti Stotram

Hindi script

नमस्ते भगवन् देव दत्तात्रेय जगत्प्रभो । सर्वबाधाप्रशमनं कुरु शान्तिं प्रयच्छ मे ॥ १ ॥ अनसूयासुत श्रीशः जनपातकनाशन । दिगम्बर नमो नित्यं तुभ्यं मे वरदो भव ॥ २ ॥ भूतप्रेतपिशाचाद्याः यस्य स्मरण मात्रतः । दूरादेव पलायन्ते दत्तात्रेयं नमामि तम् ॥ ३ ॥ यन्नामस्मरणाद्दैन्यं पापं तापं च नश्यति । भीतर्ग्रहार्तिदुःस्वप्नं दत्तात्रेयं नमामि तम् ॥ ४ ॥ दद्रुस्फोटक कुष्टादि महामारी विषूचिकाः । नश्यन्त्यन्येपि रोगाश्च दत्तात्रेयं नमामि तम् ॥ ५ ॥ सङ्गजा देशकालोत्थाः तापत्रय समुत्थिताः । शाम्यन्ति यत् स्मरणतो दत्तात्रेयं नमामि तम् ॥ ६ ॥ सर्पवृश्चिकदष्टाणां विषार्तानां शरीरिणाम् । यन्नाम शान्तिदं शीघ्रं दत्तात्रेयं नमामि तम् ॥ ७ ॥ त्रिविधोत्पातशमनं विविधारिष्टनाशनम् । यन्नाम क्रूरभीतिघ्नं दत्तात्रेयं नमामि तम् ॥ ८ ॥ वैर्यादिकृतमन्त्रादि प्रयोगा यस्य कीर्तनात् । नश्यन्ति देहबाधाश्च दत्तात्रेयं नमामि तम् ॥ ९ ॥ यच्छिष्यस्मरणात् सद्यो गतनष्टादि लभ्यते । यश्चमे सर्वतस्त्राता दत्तात्रेयं नमामि तम् ॥ १० ॥ जय लाभ यशः काम दातुर्दत्तस्य यः स्तवम् । भोगमोक्षप्रदस्येमं पठेद्दत्तप्रियो भवेत् ॥ ११ ॥ देवनाथगुरो स्वामिन् देशिक स्वात्मनायक । त्राहि त्राहि कृपासिन्धो पूर्णपारायणं कुरु ॥ इति श्रीमत्परमहंस परिव्राजकाचार्यवर्य श्रीवासुदेवानन्दसरस्वती विरचित श्री दत्तात्रेय शान्ति स्तोत्रम् ।

Meaning · English summary

A hymn seeking peace and refuge in Dattatreya.

Categories

← Browse prayers