✳ Prayer & Chant

श्री धन्वन्तरी महामन्त्रम्

Dhanvantari Mantra

Hindi script

ध्यानम् । अच्युतानन्त गोविन्द विष्णो नारायणाऽमृत रोगान्मे नाशयाऽशेषानाशु धन्वन्तरे हरे । आरोग्यं दीर्घमायुष्यं बलं तेजो धियं श्रियं स्वभक्तेभ्योऽनुगृह्णन्तं वन्दे धन्वन्तरिं हरिम् ॥ धन्वन्तरेरिमं श्लोकं भक्त्या नित्यं पठन्ति ये । अनारोग्यं न तेषां स्यात् सुखं जीवन्ति ते चिरम् ॥ मन्त्रम् । ओं नमो भगवते वासुदेवाय धन्वन्तरये अमृतकलशहस्ताय [वज्रजलौकहस्ताय] सर्वामयविनाशनाय त्रैलोक्यनाथाय श्रीमहाविष्णवे स्वाहा । गायत्री । ओं वासुदेवाय विद्महे सुधाहस्ताय धीमहि तन्नो धन्वन्तरिः प्रचोदयात् । तारकमन्त्रम् । ओं धं धन्वन्तरये नमः । [** पाठान्तरं – ध्यानम् । शङ्खं चक्रं जलौकां दधदमृतघटं चारुदोर्भिश्चतुर्भिः सूक्ष्मस्वच्छातिहृद्यांशुक परिविलसन्मौलिमम्भोजनेत्रम् । कालाम्भोदोज्ज्वलाङ्गं कटितटविलसच्चारुपीताम्बराढ्यं वन्दे धन्वन्तरिं तं निखिलगदवनप्रौढदावाग्निलीलम् ॥ मन्त्रः । ओं नमो भगवते महासुदर्शनाय वासुदेवाय धन्वन्तरये अमृतकलशहस्ताय सर्वभयविनाशाय सर्वरोगनिवारणाय त्रैलोक्यपतये त्रैलोक्यनिधये श्रीमहाविष्णुस्वरूप श्रीधन्वन्तरीस्वरूप श्री श्री श्री औषधचक्र नारायणाय स्वाहा । **]

Meaning · English summary

Salutations to Dhanvantari, the form of Vishnu who holds the nectar vessel and is praised as the divine healer and lord of the three worlds.

Categories

← Browse prayers