✳ Prayer & Chant

श्री धन्वन्तर्यष्टोत्तरशतनाम स्तोत्रम्

Dhanvantari Ashtottara Shatanama Stotram

Hindi script

धन्वन्तरिः सुधापूर्णकलशाढ्यकरो हरिः । जरामृतित्रस्तदेवप्रार्थनासाधकः प्रभुः ॥ १ ॥ निर्विकल्पो निस्समानो मन्दस्मितमुखाम्बुजः । आञ्जनेयप्रापिताद्रिः पार्श्वस्थविनतासुतः ॥ २ ॥ निमग्नमन्दरधरः कूर्मरूपी बृहत्तनुः । नीलकुञ्चितकेशान्तः परमाद्भुतरूपधृत् ॥ ३ ॥ कटाक्षवीक्षणाश्वस्तवासुकिः सिंहविक्रमः । स्मर्तृहृद्रोगहरणो महाविष्ण्वंशसम्भवः ॥ ४ ॥ प्रेक्षणीयोत्पलश्याम आयुर्वेदाधिदैवतम् । भेषजग्रहणानेहः स्मरणीयपदाम्बुजः ॥ ५ ॥ नवयौवनसम्पन्नः किरीटान्वितमस्तकः । नक्रकुण्डलसंशोभिश्रवणद्वयशष्कुलिः ॥ ६ ॥ दीर्घपीवरदोर्दण्डः कम्बुग्रीवोऽम्बुजेक्षणः । चतुर्भुजः शङ्खधरश्चक्रहस्तो वरप्रदः ॥ ७ ॥ सुधापात्रोपरिलसदाम्रपत्रलसत्करः । शतपद्याढ्यहस्तश्च कस्तूरीतिलकाञ्चितः ॥ ८ ॥ सुकपोलः सुनासश्च सुन्दरभ्रूलताञ्चितः । स्वङ्गुलीतलशोभाढ्यो गूढजत्रुर्महाहनुः ॥ ९ ॥ दिव्याङ्गदलसद्बाहुः केयूरपरिशोभितः । विचित्ररत्नखचितवलयद्वयशोभितः ॥ १० ॥ समोल्लसत्सुजातांसश्चाङ्गुलीयविभूषितः । सुधागन्धरसास्वादमिलद्भृङ्गमनोहरः ॥ ११ ॥ लक्ष्मीसमर्पितोत्फुल्लकञ्जमालालसद्गलः । लक्ष्मीशोभितवक्षस्को वनमालाविराजितः ॥ १२ ॥ नवरत्नमणीक्लुप्तहारशोभितकन्धरः । हीरनक्षत्रमालादिशोभारञ्जितदिङ्मुखः ॥ १३ ॥ विरजोऽम्बरसंवीतो विशालोराः पृथुश्रवाः । निम्ननाभिः सूक्ष्ममध्यः स्थूलजङ्घो निरञ्जनः ॥ १४ ॥ सुलक्षणपदाङ्गुष्ठः सर्वसामुद्रिकान्वितः । अलक्तकारक्तपादो मूर्तिमद्वार्धिपूजितः ॥ १५ ॥ सुधार्थान्योन्यसम्युध्यद्देवदैतेयसान्त्वनः । कोटिमन्मथसङ्काशः सर्वावयवसुन्दरः ॥ १६ ॥ अमृतास्वादनोद्युक्तदेवसङ्घपरिष्टुतः । पुष्पवर्षणसम्युक्तगन्धर्वकुलसेवितः ॥ १७ ॥ शङ्खतूर्यमृदङ्गादिसुवादित्राप्सरोवृतः । विष्वक्सेनादियुक्पार्श्वः सनकादिमुनिस्तुतः ॥ १८ ॥ साश्चर्यसस्मितचतुर्मुखनेत्रसमीक्षितः । साशङ्कसम्भ्रमदितिदनुवंश्यसमीडितः ॥ १९ ॥ नमनोन्मुखदेवादिमौलिरत्नलसत्पदः । दिव्यतेजःपुञ्जरूपः सर्वदेवहितोत्सुकः ॥ २० ॥ स्वनिर्गमक्षुब्धदुग्धवाराशिर्दुन्दुभिस्वनः । गन्धर्वगीतापदानश्रवणोत्कमहामनाः ॥ २१ ॥ निष्किञ्चनजनप्रीतो भवसम्प्राप्तरोगहृत् । अन्तर्हितसुधापात्रो महात्मा मायिकाग्रणीः ॥ २२ ॥ क्षणार्धमोहिनीरूपः सर्वस्त्रीशुभलक्षणः । मदमत्तेभगमनः सर्वलोकविमोहनः ॥ २३ ॥ स्रंसन्नीवीग्रन्थिबन्धासक्तदिव्यकराङ्गुलिः । रत्नदर्वीलसद्धस्तो देवदैत्यविभागकृत् ॥ २४ ॥ सङ्ख्यातदेवतान्यासो दैत्यदानववञ्चकः । देवामृतप्रदाता च परिवेषणहृष्टधीः ॥ २५ ॥ उन्मुखोन्मुखदैत्येन्द्रदन्तपङ्क्तिविभाजकः । पुष्पवत्सुविनिर्दिष्टराहुरक्षःशिरोहरः ॥ २६ ॥ राहुकेतुग्रहस्थानपश्चाद्गतिविधायकः । अमृतालाभनिर्विण्णयुध्यद्देवारिसूदनः ॥ २७ ॥ गरुत्मद्वाहनारूढः सर्वेशस्तोत्रसम्युतः । स्वस्वाधिकारसन्तुष्टशक्रवह्न्यादिपूजितः ॥ २८ ॥ मोहिनीदर्शनायातस्थाणुचित्तविमोहकः । शचीस्वाहादिदिक्पालपत्नीमण्डलसन्नुतः ॥ २९ ॥ वेदान्तवेद्यमहिमा सर्वलोकैकरक्षकः । राजराजप्रपूज्याङ्घ्रिः चिन्तितार्थप्रदायकः ॥ ३० ॥ धन्वन्तरेर्भगवतो नाम्नामष्टोत्तरं शतम् । यः पठेत्सततं भक्त्या नीरोगः सुखभाग्भवेत् ॥ ३१ ॥ इति बृहद्ब्रह्मानन्दोपनिषदान्तर्गतं श्री धन्वन्तर्यष्टोत्तरशतनाम स्तोत्रम् ।

Meaning · English summary

A hymn remembering Dhanvantari through his names and qualities, including the bearer of nectar and the deity associated with Ayurveda.

Categories

← Browse prayers