✳ Prayer & Chant

श्री हयग्रीव स्तोत्रम्

Sri Hayagriva Stotram

Hindi script

श्रीमान् वेङ्कटनाथार्यः कवितार्किककेसरी । वेदान्ताचार्यवर्यो मे सन्निधत्तां सदा हृदि ॥ ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् । आधारं सर्वविद्यानां हयग्रीवमुपास्महे ॥ १ ॥ स्वतः सिद्धं शुद्धस्फटिकमणिभूभृत्प्रतिभटं सुधासध्रीचीभिर्द्युतिभिरवदातत्रिभुवनम् । अनन्तैस्त्रय्यन्तैरनुविहितहेषाहलहलं हताशेषावद्यं हयवदनमीडीमहि महः ॥ २ ॥ समाहारः साम्नां प्रतिपदमृचां धाम यजुषां लयः प्रत्यूहानां लहरिविततिर्बोधजलधेः । कथादर्पक्षुभ्यत्कथककुलकोलाहलभवं हरत्वन्तर्ध्वान्तं हयवदनहेषाहलहलः ॥ ३ ॥ प्राची सन्ध्या काचिदन्तर्निशायाः प्रज्ञादृष्टेरञ्जनश्रीरपूर्वा । वक्त्री वेदान् भातु मे वाजिवक्त्रा वागीशाख्या वासुदेवस्य मूर्तिः ॥ ४ ॥ विशुद्धविज्ञानघनस्वरूपं विज्ञानविश्राणनबद्धदीक्षम् । दयानिधिं देहभृतां शरण्यं देवं हयग्रीवमहं प्रपद्ये ॥ ५ ॥ अपौरुषेयैरपि वाक्प्रपञ्चैः अद्यापि ते भूतिमदृष्टपाराम् । स्तुवन्नहं मुग्ध इति त्वयैव कारुण्यतो नाथ कटाक्षणीयः ॥ ६ ॥ दाक्षिण्यरम्या गिरिशस्य मूर्तिः देवी सरोजासनधर्मपत्नी । व्यासादयोऽपि व्यपदेश्यवाचः स्फुरन्ति सर्वे तव शक्तिलेशैः ॥ ७ ॥ मन्दोऽभविष्यन्नियतं विरिञ्चो वाचां निधे वञ्चितभागधेयः । दैत्यापनीतान् दययैव भूयोऽपि अध्यापयिष्यो निगमान् न चेत् त्वम् ॥ ८ ॥ वितर्कडोलां व्यवधूय सत्त्वे बृहस्पतिं वर्तयसे यतस्त्वम् । तेनैव देव त्रिदेशेश्वराणां अस्पृष्टडोलायितमाधिराज्यम् ॥ ९ ॥ अग्नौ समिद्धार्चिषि सप्ततन्तोः आतस्थिवान् मन्त्रमयं शरीरम् । अखण्डसारैर्हविषां प्रदानैः आप्यायनं व्योमसदां विधत्से ॥ १० ॥ यन्मूलमीदृक् प्रतिभाति तत्त्वं या मूलमाम्नायमहाद्रुमाणाम् । तत्त्वेन जानन्ति विशुद्धसत्त्वाः त्वामक्षरामक्षरमातृकां त्वाम् ॥ ११ ॥ अव्याकृताद्व्याकृतवानसि त्वं नामानि रूपाणि च यानि पूर्वम् । शंसन्ति तेषां चरमां प्रतिष्ठां वागीश्वर त्वां त्वदुपज्ञवाचः ॥ १२ ॥ मुग्धेन्दुनिष्यन्दविलोभनीयां मूर्तिं तवानन्दसुधाप्रसूतिम् । विपश्चितश्चेतसि भावयन्ते वेलामुदारामिव दुग्धसिन्धोः ॥ १३ ॥ मनोगतं पश्यति यः सदा त्वां मनीषिणां मानसराजहंसम् । स्वयं पुरोभावविवादभाजः किङ्कुर्वते तस्य गिरो यथार्हम् ॥ १४ ॥ अपि क्षणार्धं कलयन्ति ये त्वां आप्लावयन्तं विशदैर्मयूखैः । वाचां प्रवाहैरनिवारितैस्ते मन्दाकिनीं मन्दयितुं क्षमन्ते ॥ १५ ॥ स्वामिन् भवद्ध्यानसुधाभिषेकात् वहन्ति धन्याः पुलकानुबन्धम् । अलक्षिते क्वापि निरूढमूलं अङ्गेष्विवानन्दथुमङ्कुरन्तम् ॥ १६ ॥ स्वामिन् प्रतीचा हृदयेन धन्याः त्वद्ध्यानचन्द्रोदयवर्धमानम् । अमान्तमानन्दपयोधिमन्तः पयोभिरक्ष्णां परिवाहयन्ति ॥ १७ ॥ स्वैरानुभावास्त्वदधीनभावाः समृद्धवीर्यास्त्वदनुग्रहेण । विपश्चितो नाथ तरन्ति मायां वैहारिकीं मोहनपिञ्छिकां ते ॥ १८ ॥ प्राङ्निर्मितानां तपसां विपाकाः प्रत्यग्रनिःश्रेयससम्पदो मे । समेधिषीरंस्तव पादपद्मे सङ्कल्पचिन्तामणयः प्रणामाः ॥ १९ ॥ विलुप्तमूर्धन्यलिपिक्रमाणां सुरेन्द्रचूडापदलालितानाम् । त्वदङ्घ्रिराजीवरजःकणानां भूयान् प्रसादो मयि नाथ भूयात् ॥ २० ॥ परिस्फुरन्नूपुरचित्रभानु- -प्रकाशनिर्धूततमोनुषङ्गम् । पदद्वयीं ते परिचिन्महेऽन्तः प्रबोधराजीवविभातसन्ध्याम् ॥ २१ ॥ त्वत्किङ्करालङ्करणोचितानां त्वयैव कल्पान्तरपालितानाम् । मञ्जुप्रणादं मणिनूपुरं ते मञ्जूषिकां वेदगिरां प्रतीमः ॥ २२ ॥ सञ्चिन्तयामि प्रतिभादशास्थान् सन्धुक्षयन्तं समयप्रदीपान् । विज्ञानकल्पद्रुमपल्लवाभं व्याख्यानमुद्रामधुरं करं ते ॥ २३ ॥ चित्ते करोमि स्फुरिताक्षमालं सव्येतरं नाथ करं त्वदीयम् । ज्ञानामृतोदञ्चनलम्पटानां लीलाघटीयन्त्रमिवाश्रितानाम् ॥ २४ ॥ प्रबोधसिन्धोररुणैः प्रकाशैः प्रवालसङ्घातमिवोद्वहन्तम् । विभावये देव सपुस्तकं ते वामं करं दक्षिणमाश्रितानाम् ॥ २५ ॥ तमांसि भित्त्वा विशदैर्मयूखैः सम्प्रीणयन्तं विदुषश्चकोरान् । निशामये त्वां नवपुण्डरीके शरद्घने चन्द्रमिव स्फुरन्तम् ॥ २६ ॥ दिशन्तु मे देव सदा त्वदीयाः दयातरङ्गानुचराः कटाक्षाः । श्रोत्रेषु पुंसाममृतं क्षरन्तीं सरस्वतीं संश्रितकामधेनुम् ॥ २७ ॥ विशेषवित्पारिषदेषु नाथ विदग्ध गोष्ठीसमराङ्गणेषु । जिगीषतो मे कवितार्किकेन्द्रान् जिह्वाग्रसिंहासनमभ्युपेयाः ॥ २८ ॥ त्वां चिन्तयन् त्वन्मयतां प्रपन्नः त्वामुद्गृणन् शब्दमयेन धाम्ना । स्वामिन् समाजेषु समेधिषीय स्वच्छन्दवादाहवबद्धशूरः ॥ २९ ॥ नानाविधानामगतिः कलानां न चापि तीर्थेषु कृतावतारः । ध्रुवं तवानाथपरिग्रहायाः नवं नवं पात्रमहं दयायाः ॥ ३० ॥ अकम्पनीयान्यपनीतिभेदैः अलङ्कृषीरन् हृदयं मदीयम् । शङ्काकलङ्कापगमोज्ज्वलानि तत्त्वानि सम्यञ्चि तव प्रसादात् ॥ ३१ ॥ व्याख्यामुद्रां करसरसिजैः पुस्तकं शङ्खचक्रे बिभ्रद्भिन्नस्फटिकरुचिरे पुण्डरीके निषण्णः । अम्लानश्रीरमृतविशदैरंशुभिः प्लावयन् मां आविर्भूयादनघमहिमा मानसे वागधीशः ॥ ३२ ॥ वागर्थसिद्धिहेतोः पठत हयग्रीवसंस्तुतिं भक्त्या । कवितार्किककेसरिणा वेङ्कटनाथेन विरचितामेताम् ॥ ३३ ॥ कवितार्किकसिंहाय कल्याणगुणशालिने । श्रीमते वेङ्कटेशाय वेदान्तगुरवे नमः ॥ इति श्रीवेदान्तदेशिक कृत श्री हयग्रीव स्तोत्रम् ।

Meaning · English summary

A hymn to Hayagriva, embodiment of knowledge, seeking understanding, learning and clarity of speech.

Categories

← Browse prayers