✳ Prayer & Chant

कनकधारा स्तोत्रम्

Kanakadhara Stotram

Hindi script

वन्दे वन्दारु मन्दारमिन्दिरानन्दकन्दलम् । अमन्दानन्दसन्दोह बन्धुरं सिन्धुराननम् ॥ अङ्गं हरेः पुलकभूषणमाश्रयन्ती भृङ्गाङ्गनेव मुकुलाभरणं तमालम् । अङ्गीकृताखिलविभूतिरपाङ्गलीला माङ्गल्यदास्तु मम मङ्गलदेवतायाः ॥ १ ॥ मुग्धा मुहुर्विदधती वदने मुरारेः प्रेमत्रपाप्रणिहितानि गतागतानि । मालादृशोर्मधुकरीव महोत्पले या सा मे श्रियं दिशतु सागरसम्भवायाः ॥ २ ॥ विश्वामरेन्द्रपदविभ्रमदानदक्ष- -मानन्दहेतुरधिकं मुरविद्विषोऽपि । ईषन्निषीदतु मयि क्षणमीक्षणार्थ- -मिन्दीवरोदरसहोदरमिन्दिरायाः ॥ ३ ॥ आमीलिताक्षमधिगम्य मुदा मुकुन्द- -मानन्दकन्दमनिमेषमनङ्गतन्त्रम् । आकेकरस्थितकनीनिकपक्ष्मनेत्रं भूत्यै भवेन्मम भुजङ्गशयाङ्गनायाः ॥ ४ ॥ बाह्वन्तरे मधुजितः श्रितकौस्तुभे या हारावलीव हरिनीलमयी विभाति । कामप्रदा भगवतोऽपि कटाक्षमाला कल्याणमावहतु मे कमलालयायाः ॥ ५ ॥ कालाम्बुदालिललितोरसि कैटभारे- -र्धाराधरे स्फुरति या तटिदङ्गनेव । मातुस्समस्तजगतां महनीयमूर्तिः भद्राणि मे दिशतु भार्गवनन्दनायाः ॥ ६ ॥ प्राप्तं पदं प्रथमतः खलु यत्प्रभावा- -न्माङ्गल्यभाजि मधुमाथिनि मन्मथेन । मय्यापतेत्तदिह मन्थरमीक्षणार्धं मन्दालसं च मकरालयकन्यकायाः ॥ ७ ॥ दद्याद्दयानुपवनो द्रविणाम्बुधारा- -मस्मिन्न किञ्चन विहङ्गशिशौ विषण्णे । दुष्कर्मघर्ममपनीय चिराय दूरं नारायणप्रणयिनीनयनाम्बुवाहः ॥ ८ ॥ इष्टाविशिष्टमतयोऽपि यया दयार्द्र- -दृष्ट्या त्रिविष्टपपदं सुलभं लभन्ते । दृष्टिः प्रहृष्टकमलोदरदीप्तिरिष्टां पुष्टिं कृषीष्ट मम पुष्करविष्टरायाः ॥ ९ ॥ गीर्देवतेति गरुडध्वजसुन्दरीति शाकम्भरीति शशिशेखरवल्लभेति । सृष्टिस्थितिप्रलयकेलिषु संस्थितायै तस्यै नमस्त्रिभुवनैकगुरोस्तरुण्यै ॥ १० ॥ श्रुत्यै नमोऽस्तु शुभकर्मफलप्रसूत्यै रत्यै नमोऽस्तु रमणीयगुणार्णवायै । शक्त्यै नमोऽस्तु शतपत्रनिकेतनायै पुष्ट्यै नमोऽस्तु पुरुषोत्तमवल्लभायै ॥ ११ ॥ नमोऽस्तु नालीकनिभाननायै नमोऽस्तु दुग्धोदधिजन्मभूम्यै । नमोऽस्तु सोमामृतसोदरायै नमोऽस्तु नारायणवल्लभायै ॥ १२ ॥ [* अधिक श्लोकाः – नमोऽस्तु हेमाम्बुजपीठिकायै नमोऽस्तु भूमण्डलनायिकायै । नमोऽस्तु देवादिदयापरायै नमोऽस्तु शार्ङ्गायुधवल्लभायै ॥ नमोऽस्तु देव्यै भृगुनन्दनायै नमोऽस्तु विष्णोरुरसिस्थितायै । नमोऽस्तु लक्ष्म्यै कमलालयायै नमोऽस्तु दामोदरवल्लभायै ॥ नमोऽस्तु कान्त्यै कमलेक्षणायै नमोऽस्तु भूत्यै भुवनप्रसूत्यै । नमोऽस्तु देवादिभिरर्चितायै नमोऽस्तु नन्दात्मजवल्लभायै ॥ *] सम्पत्कराणि सकलेन्द्रियनन्दनानि साम्राज्यदानविभवानि सरोरुहाक्षि । त्वद्वन्दनानि दुरिताहरणोद्यतानि मामेव मातरनिशं कलयन्तु मान्ये ॥ १३ ॥ यत्कटाक्षसमुपासनाविधिः सेवकस्य सकलार्थसम्पदः । सन्तनोति वचनाङ्गमानसै- -स्त्वां मुरारिहृदयेश्वरीं भजे ॥ १४ ॥ सरसिजनिलये सरोजहस्ते धवलतमांशुकगन्धमाल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ १५ ॥ दिग्घस्तिभिः कनककुम्भमुखावसृष्ट- -स्वर्वाहिनीविमलचारुजलप्लुताङ्गीम् । प्रातर्नमामि जगतां जननीमशेष- -लोकाधिनाथगृहिणीममृताब्धिपुत्रीम् ॥ १६ ॥ कमले कमलाक्षवल्लभे त्वं करुणापूरतरङ्गितैरपाङ्गैः । अवलोकय मामकिञ्चनानां प्रथमं पात्रमकृत्रिमं दयायाः ॥ १७ ॥ [* अधिक श्लोकाः – बिल्वाटवीमध्यलसत्सरोजे सहस्रपत्रे सुखसन्निविष्टाम् । अष्टापदाम्भोरुहपाणिपद्मां सुवर्णवर्णां प्रणमामि लक्ष्मीम् ॥ कमलासनपाणिना ललाटे लिखितामक्षरपङ्क्तिमस्य जन्तोः । परिमार्जय मातरङ्घ्रिणा ते धनिकद्वारनिवास दुःखदोग्ध्रीम् ॥ अम्भोरुहं जन्मगृहं भवत्याः वक्षःस्थलं भर्तृगृहं मुरारेः । कारुण्यतः कल्पय पद्मवासे लीलागृहं मे हृदयारविन्दम् ॥ *] स्तुवन्ति ये स्तुतिभिरमूभिरन्वहं त्रयीमयीं त्रिभुवनमातरं रमाम् । गुणाधिका गुरुतरभाग्यभाजिनो भवन्ति ते भुवि बुधभाविताशयाः ॥ १८ ॥ [* अधिक श्लोकं – सुवर्णधारास्तोत्रम् यच्छङ्कराचार्य निर्मितम् । त्रिसन्ध्यं यः पठेन्नित्यं स कुबेरसमो भवेत् ॥ *] इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ कनकधारास्तोत्रम् सम्पूर्णम् ।

Meaning · English summary

A hymn describing Lakshmi's compassionate glance and asking for her gracious blessing.

Categories

← Browse prayers