✳ Prayer & Chant

श्री लक्ष्मी अष्टोत्तरशतनाम स्तोत्रम् १

Lakshmi Ashtottara Shatanama Stotram

Hindi script

देव्युवाच । देवदेव महादेव त्रिकालज्ञ महेश्वर । करुणाकर देवेश भक्तानुग्रहकारक । अष्टोत्तरशतं लक्ष्म्याः श्रोतुमिच्छामि तत्त्वतः ॥ १ ॥ ईश्वर उवाच । देवि साधु महाभागे महाभाग्यप्रदायकम् । सर्वैश्वर्यकरं पुण्यं सर्वपापप्रणाशनम् ॥ २ ॥ सर्वदारिद्र्यशमनं श्रवणाद्भुक्तिमुक्तिदम् । राजवश्यकरं दिव्यं गुह्याद्गुह्यतरं परम् ॥ ३ ॥ दुर्लभं सर्वदेवानां चतुष्षष्टिकलास्पदम् । पद्मादीनां वरान्तानां विधीनां नित्यदायकम् ॥ ४ ॥ समस्तदेवसंसेव्यमणिमाद्यष्टसिद्धिदम् । किमत्र बहुनोक्तेन देवीप्रत्यक्षदायकम् ॥ ५ ॥ तव प्रीत्याद्य वक्ष्यामि समाहितमनाः श्रृणु । अष्टोत्तरशतस्यास्य महालक्ष्मीस्तु देवता ॥ ६ ॥ क्लीं बीजपदमित्युक्तं शक्तिस्तु भुवनेश्वरी । अङ्गन्यासः करन्यास स इत्यादि प्रकीर्तितः ॥ ७ ॥ ध्यानम् – वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां हस्ताभ्यामभयप्रदां मणिगणैर्नानाविधैर्भूषिताम् । भक्ताभीष्टफलप्रदां हरिहरब्रह्मादिभिः सेवितां पार्श्वे पङ्कजशङ्खपद्मनिधिभिर्युक्तां सदा शक्तिभिः ॥ सरसिजनयने सरोजहस्ते धवलतरांशुकगन्धमाल्यशोभे । भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम् ॥ ओं प्रकृतिं विकृतिं विद्यां सर्वभूतहितप्रदाम् । श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकाम् ॥ १ ॥ वाचं पद्मालयां पद्मां शुचिं स्वाहां स्वधां सुधाम् । धन्यां हिरण्मयीं लक्ष्मीं नित्यपुष्टां विभावरीम् ॥ २ ॥ अदितिं च दितिं दीप्तां वसुधां वसुधारिणीम् । नमामि कमलां कान्तां क्षमां क्षीरोदसम्भवाम् ॥ ३ ॥ [*कामाक्षीं क्रोधसम्भवाम्*] अनुग्रहपरां बुद्धिमनघां हरिवल्लभाम् । अशोकाममृतां दीप्तां लोकशोकविनाशिनीम् ॥ ४ ॥ नमामि धर्मनिलयां करुणां लोकमातरम् । पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुन्दरीम् ॥ ५ ॥ पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमाम् । पद्ममालाधरां देवीं पद्मिनीं पद्मगन्धिनीम् ॥ ६ ॥ पुण्यगन्धां सुप्रसन्नां प्रसादाभिमुखीं प्रभाम् । नमामि चन्द्रवदनां चन्द्रां चन्द्रसहोदरीम् ॥ ७ ॥ चतुर्भुजां चन्द्ररूपामिन्दिरामिन्दुशीतलाम् । आह्लादजननीं पुष्टिं शिवां शिवकरीं सतीम् ॥ ८ ॥ विमलां विश्वजननीं तुष्टिं दारिद्र्यनाशिनीम् । प्रीतिपुष्करिणीं शान्तां शुक्लमाल्याम्बरां श्रियम् ॥ ९ ॥ भास्करीं बिल्वनिलयां वरारोहां यशस्विनीम् । वसुन्धरामुदाराङ्गां हरिणीं हेममालिनीम् ॥ १० ॥ धनधान्यकरीं सिद्धिं स्रैणसौम्यां शुभप्रदाम् । नृपवेश्मगतानन्दां वरलक्ष्मीं वसुप्रदाम् ॥ ११ ॥ शुभां हिरण्यप्राकारां समुद्रतनयां जयाम् । नमामि मङ्गलां देवीं विष्णुवक्षःस्थलस्थिताम् ॥ १२ ॥ विष्णुपत्नीं प्रसन्नाक्षीं नारायणसमाश्रिताम् । दारिद्र्यध्वंसिनीं देवीं सर्वोपद्रववारिणीम् ॥ १३ ॥ नवदुर्गां महाकालीं ब्रह्मविष्णुशिवात्मिकाम् । त्रिकालज्ञानसम्पन्नां नमामि भुवनेश्वरीम् ॥ १४ ॥ लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीं दासीभूतसमस्तदेववनितां लोकैकदीपाङ्कुराम् । श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधरां त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुन्दप्रियाम् ॥ १५ ॥ मातर्नमामि कमले कमलायताक्षि श्रीविष्णुहृत्कमलवासिनि विश्वमातः । क्षीरोदजे कमलकोमलगर्भगौरि लक्ष्मीः प्रसीद सततं नमतां शरण्ये ॥ १६ ॥ त्रिकालं यो जपेद्विद्वान् षण्मासं विजितेन्द्रियः । दारिद्र्यध्वंसनं कृत्वा सर्वमाप्नोत्ययत्नतः ॥ १ ॥ देवीनामसहस्रेषु पुण्यमष्टोत्तरं शतम् । येन श्रियमवाप्नोति कोटिजन्मदरिद्रतः ॥ २ ॥ भृगुवारे शतं धीमान् पठेद्वत्सरमात्रकम् । अष्टैश्वर्यमवाप्नोति कुबेर इव भूतले ॥ ३ ॥ दारिद्र्यमोचनं नाम स्तोत्रमम्बापरं शतम् । येन श्रियमवाप्नोति कोटिजन्मदरिद्रतः ॥ ४ ॥ भुक्त्वा तु विपुलान्भोगानस्याः सायुज्यमाप्नुयात् । प्रातःकाले पठेन्नित्यं सर्वदुःखोपशान्तये । पठंस्तु चिन्तयेद्देवीं सर्वाभरणभूषिताम् ॥ ५ ॥ इति श्रीलक्ष्म्यष्टोत्तरशतनाम स्तोत्रम् ।

Meaning · English summary

A hymn praising Lakshmi through 108 sacred names.

Categories

← Browse prayers