निर्वाणषट्कम्
Nirvana Shatkam
Hindi script
मनोबुद्ध्यहङ्कारचित्तानि नाहं
न कर्णं न जिह्वा न च घ्राणनेत्रे ।
न च व्योम भूमिर्न तेजो न वायु-
-श्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ १ ॥
न च प्राणसञ्ज्ञो न वै पञ्चवायु-
-र्न वा सप्तधातुर्न वा पञ्चकोशः ।
न वाक्पाणिपादौ न चोपस्थपायू
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ २ ॥
न मे द्वेषरागौ न मे लोभमोहौ
मदो नैव मे नैव मात्सर्यभावः ।
न धर्मो न चार्थो न कामो न मोक्ष-
-श्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ३ ॥
न पुण्यं न पापं न सौख्यं न दुःखं
न मन्त्रो न तीर्थं न वेदा न यज्ञाः ।
अहं भोजनं नैव भोज्यं न भोक्ता
चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ४ ॥
न मृत्युर्न शङ्का न मे जातिभेदः
पिता नैव मे नैव माता न जन्म ।
न बन्धुर्न मित्रं गुरुर्नैव शिष्य-
-श्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ५ ॥
अहं निर्विकल्पो निराकाररूपो
विभुत्वाच्च सर्वत्र सर्वेन्द्रियाणाम् ।
न चासङ्गतं नैव मुक्तिर्न बन्ध-
-श्चिदानन्दरूपः शिवोऽहं शिवोऽहम् ॥ ६ ॥
इति श्रीमच्छङ्कराचार्य कृतौ निर्वाण षट्कम् ॥
Meaning · English summary
Six verses distinguishing the Self from mind, senses and body, affirming consciousness and bliss through the refrain Shivoham.