✳ Prayer & Chant

श्री लक्ष्मीनृसिंह करावलम्ब स्तोत्रम्

Lakshmi Narasimha Karavalamba Stotram

Hindi script

श्रीमत्पयोनिधिनिकेतनचक्रपाणे भोगीन्द्रभोगमणिराजितपुण्यमूर्ते । योगीश शाश्वत शरण्य भवाब्धिपोत लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १ ॥ ब्रह्मेन्द्ररुद्रमरुदर्ककिरीटकोटि- -सङ्घट्‍टिताङ्घ्रिकमलामलकान्तिकान्त । लक्ष्मीलसत्कुचसरोरुहराजहंस लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २ ॥ संसारदावदहनाकरभीकरोरु- -ज्वालावलीभिरतिदग्धतनूरुहस्य । त्वत्पादपद्मसरसीरुहमागतस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ३ ॥ संसारजालपतितस्य जगन्निवास सर्वेन्द्रियार्थबडिशाग्रझषोपमस्य । प्रोत्कम्पितप्रचुरतालुकमस्तकस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ४ ॥ संसारकूपमतिघोरमगाधमूलं सम्प्राप्य दुःखशतसर्पसमाकुलस्य । दीनस्य देव कृपया पदमागतस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ५ ॥ संसारभीकरकरीन्द्रकराभिघात- -निष्पीड्यमानवपुषः सकलार्तिनाश । प्राणप्रयाणभवभीतिसमाकुलस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ६ ॥ संसारसर्पविषदग्धमहोग्रतीव्र- -दंष्ट्राग्रकोटिपरिदष्टविनष्टमूर्तेः । नागारिवाहन सुधाब्धिनिवास शौरे लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ७ ॥ संसारवृक्षमघबीजमनन्तकर्म- -शाखायुतं करणपत्रमनङ्गपुष्पम् । आरुह्य दुःखफलितं पततो दयालो [चकितं] लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ८ ॥ संसारसागरविशालकरालकाल- -नक्रग्रहग्रसितनिग्रहविग्रहस्य । व्यग्रस्य रागनिचयोर्मिनिपीडितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ९ ॥ संसारसागरनिमज्जनमुह्यमानं दीनं विलोकय विभो करुणानिधे माम् । प्रह्लादखेदपरिहारपरावतार लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १० ॥ संसारघोरगहने चरतो मुरारे मारोग्रभीकरमृगप्रचुरार्दितस्य । आर्तस्य मत्सरनिदाघसुदुःखितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ ११ ॥ बद्ध्वा गले यमभटा बहुतर्जयन्तः कर्षन्ति यत्र भवपाशशतैर्युतं माम् । एकाकिनं परवशं चकितं दयालो लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १२ ॥ लक्ष्मीपते कमलनाभ सुरेश विष्णो यज्ञेश यज्ञ मधुसूदन विश्वरूप । ब्रह्मण्य केशव जनार्दन वासुदेव लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १३ ॥ एकेन चक्रमपरेण करेण शङ्ख- -मन्येन सिन्धुतनयामवलम्ब्य तिष्ठन् । वामेतरेण वरदाभयपद्मचिह्नं लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १४ ॥ अन्धस्य मे हृतविवेकमहाधनस्य चोरैर्महाबलिभिरिन्द्रियनामधेयैः । मोहान्धकारकुहरे विनिपातितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १५ ॥ प्रह्लादनारदपराशरपुण्डरीक- -व्यासादिभागवतपुङ्गवहृन्निवास । भक्तानुरक्तपरिपालनपारिजात लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १६ ॥ लक्ष्मीनृसिंहचरणाब्जमधुव्रतेन स्तोत्रं कृतं शुभकरं भुवि शङ्करेण । ये तत्पठन्ति मनुजा हरिभक्तियुक्ता- -स्ते यान्ति तत्पदसरोजमखण्डरूपम् ॥ १७ ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीमच्छङ्कराचार्य विरचितं श्रीलक्ष्मीनृसिंह करावलम्ब स्तोत्रम् । — अधिकश्लोकाः — संसारयोग सकलेप्सितनित्यकर्म सम्प्राप्यदुःख सकलेन्द्रियमृत्युनाश । सङ्कल्प सिन्धुतनयाकुच कुङ्कुमाङ्क लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १८ ॥ आद्यन्तशून्यमजमव्ययमप्रमेयं आदित्यरुद्रनिगमादिनुतप्रभावम् । अम्भोधिजास्य मधुलोलुप मत्तभृङ्ग लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ १९ ॥ वाराह राम नरसिंह रमादिकान्ता क्रीडाविलोल विधिशूलि सुरप्रवन्द्य । हंसात्मकं परमहंस विहारलीलं लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २० ॥ माता नृसिंहश्च पिता नृसिंहः भ्राता नृसिंहश्च सखा नृसिंहः । विद्या नृसिंहो द्रविणं नृसिंहः लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २१ ॥ प्रह्लाद मानस सरोज विहारभृङ्ग गङ्गातरङ्ग धवलाङ्ग रमास्थिताङ्क । शृङ्गार सुन्दर किरीट लसद्वराङ्ग लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ २२ ॥ श्रीशङ्करार्य रचितं सततं मनुष्यः स्तोत्रं पठेदिहतु सत्वगुणप्रसन्नम् । सद्योविमुक्त कलुषो मुनिवर्य गण्यो लक्ष्मी पदमुपैति सनिर्मलात्मा ॥ २३ ॥ यन्माययोर्जितः वपुः प्रचुर प्रवाह मग्नार्थ मत्रनिवहोरु करावलम्बम् । लक्ष्मीनृसिंह चरणाब्ज मधुव्रतेन स्तोत्रं कृतं शुभकरं भुवि शङ्करेण ॥ २४ ॥ श्रीमन्नृसिंह विभवे गरुडध्वजाय तापत्रयोपशमनाय भवौषधाय । तृष्णादि वृश्चिक जलाग्नि भुजङ्ग रोग क्लेशापहाय हरये गुरवे नमस्ते ॥ २५ ॥ इति श्रीलक्ष्मीनृसिंह करावलम्ब स्तोत्रम् ।

Meaning · English summary

A hymn using images of worldly distress to ask Lakshmi Narasimha for his helping hand. This edition contains twenty-five verses.

Categories

← Browse prayers