✳ Prayer & Chant

सन्तान गोपाल स्तोत्रम्

Santana Gopala Stotram

Hindi script

श्रीशं कमलपत्राक्षं देवकीनन्दनं हरिम् । सुतसम्प्राप्तये कृष्णं नमामि मधुसूदनम् ॥ १ ॥ नमाम्यहं वासुदेवं सुतसम्प्राप्तये हरिम् । यशोदाङ्कगतं बालं गोपालं नन्दनन्दनम् ॥ २ ॥ अस्माकं पुत्रलाभाय गोविन्दं मुनिवन्दितम् । नमाम्यहं वासुदेवं देवकीनन्दनं सदा ॥ ३ ॥ गोपालं डिम्भकं वन्दे कमलापतिमच्युतम् । पुत्रसम्प्राप्तये कृष्णं नमामि यदुपुङ्गवम् ॥ ४ ॥ पुत्रकामेष्टिफलदं कञ्जाक्षं कमलापतिम् । देवकीनन्दनं वन्दे सुत सम्प्राप्तये मम ॥ ५ ॥ पद्मापते पद्मनेत्र पद्मनाभ जनार्दन । देहि मे तनयं श्रीश वासुदेव जगत्पते ॥ ६ ॥ यशोदाङ्कगतं बालं गोविन्दं मुनिवन्दितम् । अस्माकं पुत्र लाभाय नमामि श्रीशमच्युतम् ॥ ७ ॥ श्रीपते देवदेवेश दीनार्तिर्हरणाच्युत । गोविन्द मे सुतं देहि नमामि त्वां जनार्दन ॥ ८ ॥ भक्तकामद गोविन्द भक्तरक्ष शुभप्रद । देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥ ९ ॥ रुक्मिणीनाथ सर्वेश देहि मे तनयं सदा । भक्तमन्दार पद्माक्ष त्वामहं शरणं गतः ॥ १० ॥ देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ११ ॥ वासुदेव जगद्वन्द्य श्रीपते पुरुषोत्तम । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ १२ ॥ कञ्जाक्ष कमलानाथ परकारुणिकोत्तम । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ १३ ॥ लक्ष्मीपते पद्मनाभ मुकुन्द मुनिवन्दित । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ १४ ॥ कार्यकारणरूपाय वासुदेवाय ते सदा । नमामि पुत्रलाभार्थं सुखदाय बुधाय ते ॥ १५ ॥ राजीवनेत्र श्रीराम रावणारे हरे कवे । तुभ्यं नमामि देवेश तनयं देहि मे हरे ॥ १६ ॥ अस्माकं पुत्रलाभाय भजामि त्वां जगत्पते । देहि मे तनयं कृष्ण वासुदेव रमापते ॥ १७ ॥ श्रीमानिनीमानचोर गोपीवस्त्रापहारक । देहि मे तनयं कृष्ण वासुदेव जगत्पते ॥ १८ ॥ अस्माकं पुत्रसम्प्राप्तिं कुरुष्व यदुनन्दन । रमापते वासुदेव मुकुन्द मुनिवन्दित ॥ १९ ॥ वासुदेव सुतं देहि तनयं देहि माधव । पुत्रं मे देहि श्रीकृष्ण वत्सं देहि महाप्रभो ॥ २० ॥ डिम्भकं देहि श्रीकृष्ण आत्मजं देहि राघव । भक्तमन्दार मे देहि तनयं नन्दनन्दन ॥ २१ ॥ नन्दनं देहि मे कृष्ण वासुदेव जगत्पते । कमलानाथ गोविन्द मुकुन्द मुनिवन्दित ॥ २२ ॥ अन्यथा शरणं नास्ति त्वमेव शरणं मम । सुतं देहि श्रियं देहि श्रियं पुत्रं प्रदेहि मे ॥ २३ ॥ यशोदास्तन्यपानज्ञं पिबन्तं यदुनन्दनम् । वन्देऽहं पुत्रलाभार्थं कपिलाक्षं हरिं सदा ॥ २४ ॥ नन्दनन्दन देवेश नन्दनं देहि मे प्रभो । रमापते वासुदेव श्रियं पुत्रं जगत्पते ॥ २५ ॥ पुत्रं श्रियं श्रियं पुत्रं पुत्रं मे देहि माधव । अस्माकं दीनवाक्यस्य अवधारय श्रीपते ॥ २६ ॥ गोपालडिम्भ गोविन्द वासुदेव रमापते । अस्माकं डिम्भकं देहि श्रियं देहि जगत्पते ॥ २७ ॥ मद्वाञ्छितफलं देहि देवकीनन्दनाच्युत । मम पुत्रार्थितं धन्यं कुरुष्व यदुनन्दन ॥ २८ ॥ याचेऽहं त्वां श्रियं पुत्रं देहि मे पुत्रसम्पदम् । भक्तचिन्तामणे राम कल्पवृक्ष महाप्रभो ॥ २९ ॥ आत्मजं नन्दनं पुत्रं कुमारं डिम्भकं सुतम् । अर्भकं तनयं देहि सदा मे रघुनन्दन ॥ ३० ॥ वन्दे सन्तानगोपालं माधवं भक्तकामदम् । अस्माकं पुत्रसम्प्राप्त्यै सदा गोविन्दमच्युतम् ॥ ३१ ॥ ओङ्कारयुक्तं गोपालं श्रीयुक्तं यदुनन्दनम् । क्लीम्युक्तं देवकीपुत्रं नमामि यदुनायकम् ॥ ३२ ॥ वासुदेव मुकुन्देश गोविन्द माधवाच्युत । देहि मे तनयं कृष्ण रमानाथ महाप्रभो ॥ ३३ ॥ राजीवनेत्र गोविन्द कपिलाक्ष हरे प्रभो । समस्त काम्यवरद देहि मे तनयं सदा ॥ ३४ ॥ अब्जपद्मनिभ पद्मबृन्दरूप जगत्पते । देहि मे वरसत्पुत्रं रूपनायक माधव ॥ ३५ ॥ नन्दपाल धरापाल गोविन्द यदुनन्दन । देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥ ३६ ॥ दासमन्दार गोविन्द मुकुन्द माधवाच्युत । गोपाल पुण्डरीकाक्ष देहि मे तनयं श्रियम् ॥ ३७ ॥ यदुनायक पद्मेश नन्दगोपवधूसुत । देहि मे तनयं कृष्ण श्रीधर प्राणनायक ॥ ३८ ॥ अस्माकं वाञ्छितं देहि देहि पुत्रं रमापते । भगवन् कृष्ण सर्वेश वासुदेव जगत्पते ॥ ३९ ॥ रमाहृदयसम्भार सत्यभामामनःप्रिय । देहि मे तनयं कृष्ण रुक्मिणीवल्लभ प्रभो ॥ ४० ॥ चन्द्रसूर्याक्ष गोविन्द पुण्डरीकाक्ष माधव । अस्माकं भाग्यसत्पुत्रं देहि देव जगत्पते ॥ ४१ ॥ कारुण्यरूप पद्माक्ष पद्मनाभसमर्चित । देहि मे तनयं कृष्ण देवकीनन्दनन्दन ॥ ४२ ॥ देवकीसुत श्रीनाथ वासुदेव जगत्पते । समस्तकामफलद देहि मे तनयं सदा ॥ ४३ ॥ भक्तमन्दार गम्भीर शङ्कराच्युत माधव । देहि मे तनयं गोपबालवत्सल श्रीपते ॥ ४४ ॥ श्रीपते वासुदेवेश देवकीप्रियनन्दन । भक्तमन्दार मे देहि तनयं जगतां प्रभो ॥ ४५ ॥ जगन्नाथ रमानाथ भूमिनाथ दयानिधे । वासुदेवेश सर्वेश देहि मे तनयं प्रभो ॥ ४६ ॥ श्रीनाथ कमलपत्राक्ष वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ४७ ॥ दासमन्दार गोविन्द भक्तचिन्तामणे प्रभो । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ४८ ॥ गोविन्द पुण्डरीकाक्ष रमानाथ महाप्रभो । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ४९ ॥ श्रीनाथ कमलपत्राक्ष गोविन्द मधुसूदन । मत्पुत्रफलसिद्ध्यर्थं भजामि त्वां जनार्दन ॥ ५० ॥ स्तन्यं पिबन्तं जननीमुखाम्बुजं विलोक्य मन्दस्मितमुज्ज्वलाङ्गम् । स्पृशन्तमन्यस्तनमङ्गुलीभिः वन्दे यशोदाङ्कगतं मुकुन्दम् ॥ ५१ ॥ याचेऽहं पुत्रसन्तानं भवन्तं पद्मलोचन । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ५२ ॥ अस्माकं पुत्रसम्पत्तेश्चिन्तयामि जगत्पते । शीघ्रं मे देहि दातव्यं भवता मुनिवन्दित ॥ ५३ ॥ वासुदेव जगन्नाथ श्रीपते पुरुषोत्तम । कुरु मां पुत्रदत्तं च कृष्ण देवेन्द्रपूजित ॥ ५४ ॥ कुरु मां पुत्रदत्तं च यशोदाप्रियनन्दन । मह्यं च पुत्रसन्तानं दातव्यं भवता हरे ॥ ५५ ॥ वासुदेव जगन्नाथ गोविन्द देवकीसुत । देहि मे तनयं राम कौसल्याप्रियनन्दन ॥ ५६ ॥ पद्मपत्राक्ष गोविन्द विष्णो वामन माधव । देहि मे तनयं सीताप्राणनायक राघव ॥ ५७ ॥ कञ्जाक्ष कृष्ण देवेन्द्रमण्डित मुनिवन्दित । लक्ष्मणाग्रज श्रीराम देहि मे तनयं सदा ॥ ५८ ॥ देहि मे तनयं राम दशरथप्रियनन्दन । सीतानायक कञ्जाक्ष मुचुकुन्दवरप्रद ॥ ५९ ॥ विभीषणस्य या लङ्का प्रदत्ता भवता पुरा । अस्माकं तत्प्रकारेण तनयं देहि माधव ॥ ६० ॥ भवदीयपदाम्भोजे चिन्तयामि निरन्तरम् । देहि मे तनयं सीताप्राणवल्लभ राघव ॥ ६१ ॥ राम मत्काम्यवरद पुत्रोत्पत्तिफलप्रद । देहि मे तनयं श्रीश कमलासनवन्दित ॥ ६२ ॥ राम राघव सीतेश लक्ष्मणानुज देहि मे । भाग्यवत् पुत्रसन्तानं दशरथात्मज श्रीपते ॥ ६३ ॥ देवकीगर्भसञ्जात यशोदाप्रियनन्दन । देहि मे तनयं राम कृष्ण गोपाल माधव ॥ ६४ ॥ कृष्ण माधव गोविन्द वामनाच्युत शङ्कर । देहि मे तनयं श्रीश गोपबालकनायक ॥ ६५ ॥ गोपबाल महाधन्य गोविन्दाच्युत माधव । देहि मे तनयं कृष्ण वासुदेव जगत्पते ॥ ६६ ॥ दिशतु दिशतु पुत्रं देवकीनन्दनोऽयं दिशतु दिशतु शीघ्रं भाग्यवत् पुत्रलाभम् । दिशतु दिशतु श्रीशो राघवो रामचन्द्रो दिशतु दिशतु पुत्रं वंशविस्तारहेतोः ॥ ६७ ॥ दीयतां वासुदेवेन तनयो मत् प्रियः सुतः । कुमारो नन्दनः सीतानायकेन सदा मम ॥ ६८ ॥ राम राघव गोविन्द देवकीसुत माधव । देहि मे तनयं श्रीश गोपबालकनायक ॥ ६९ ॥ वंशविस्तारकं पुत्रं देहि मे मधुसूदन । सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ ७० ॥ ममाभीष्ट सुतं देहि कंसारे माधवाच्युत । सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ ७१ ॥ चन्द्रार्ककल्पपर्यन्तं तनयं देहि माधव । सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ ७२ ॥ विद्यावन्तं बुद्धिमन्तं श्रीमन्तं तनयं सदा । देहि मे तनयं कृष्ण देवकीनन्दन प्रभो ॥ ७३ ॥ नमामि त्वां पद्मनेत्र सुतलाभाय कामदम् । मुकुन्दं पुण्डरीकाक्षं गोविन्दं मधुसूदनम् ॥ ७४ ॥ भगवन् कृष्ण गोविन्द सर्वकामफलप्रद । देहि मे तनयं स्वामिन् त्वामहं शरणं गतः ॥ ७५ ॥ स्वामिन् त्वं भगवन् राम कृष्ण माधव कामद । देहि मे तनयं नित्यं त्वामहं शरणं गतः ॥ ७६ ॥ तनयं देहि गोविन्द कञ्जाक्ष कमलापते । सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ ७७ ॥ पद्मापते पद्मनेत्र प्रद्युम्नजनक प्रभो । सुतं देहि सुतं देहि त्वामहं शरणं गतः ॥ ७८ ॥ शङ्ख चक्र गदा खड्ग शार्ङ्गपाणे रमापते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ७९ ॥ नारायण रमानाथ राजीवपत्रलोचन । सुतं मे देहि देवेश पद्मपद्मानुवन्दित ॥ ८० ॥ राम माधव गोविन्द देवकीवरनन्दन । रुक्मिणीनाथ सर्वेश नारदादिसुरार्चित ॥ ८१ ॥ देवकीसुत गोविन्द वासुदेव जगत्पते । देहि मे तनयं श्रीश गोपबालकनायक ॥ ८२ ॥ मुनिवन्दित गोविन्द रुक्मिणीवल्लभ प्रभो । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८३ ॥ गोपिकार्जितपङ्केजमरन्दासक्तमानस । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८४ ॥ रमाहृदयपङ्केजलोल माधव कामद । ममाभीष्ट सुतं देहि त्वामहं शरणं गतः ॥ ८५ ॥ वासुदेव रमानाथ दासानां मङ्गलप्रद । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८६ ॥ कल्याणप्रद गोविन्द मुरारे मुनिवन्दित । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८७ ॥ पुत्रप्रद मुकुन्देश रुक्मिणीवल्लभ प्रभो । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८८ ॥ पुण्डरीकाक्ष गोविन्द वासुदेव जगत्पते । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ८९ ॥ दयानिधे वासुदेव मुकुन्द मुनिवन्दित । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ९० ॥ पुत्रसम्पत्प्रदातारं गोविन्दं देवपूजितम् । वन्दामहे सदा कृष्णं पुत्रलाभप्रदायिनम् ॥ ९१ ॥ कारुण्यनिधये गोपीवल्लभाय मुरारये । नमस्ते पुत्रलाभार्थं देहि मे तनयं विभो ॥ ९२ ॥ नमस्तस्मै रमेशाय रुक्मिणीवल्लभाय ते । देहि मे तनयं श्रीश गोपबालकनायक ॥ ९३ ॥ नमस्ते वासुदेवाय नित्यश्रीकामुकाय च । पुत्रदाय च सर्पेन्द्रशायिने रङ्गशायिने ॥ ९४ ॥ रङ्गशायिन् रमानाथ मङ्गलप्रद माधव । देहि मे तनयं श्रीश गोपबालकनायक ॥ ९५ ॥ दासस्य मे सुतं देहि दीनमन्दार राघव । सुतं देहि सुतं देहि पुत्रं देहि रमापते ॥ ९६ ॥ यशोदातनयाभीष्ट पुत्रदानरतः सदा । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ९७ ॥ मदिष्टदेव गोविन्द वासुदेव जनार्दन । देहि मे तनयं कृष्ण त्वामहं शरणं गतः ॥ ९८ ॥ नीतिमान् धनवान् पुत्रो विद्यावांश्च प्रजापते । भगवंस्त्वत् कृपायाश्च वासुदेवेन्द्रपूजित ॥ ९९ ॥ यः पठेत् पुत्रशतकं सोऽपि सत्पुत्रवान् भवेत् । श्रीवासुदेवकथितं स्तोत्ररत्नं सुखाय च ॥ १०० ॥ जपकाले पठेन्नित्यं पुत्रलाभं धनं श्रियम् । ऐश्वर्यं राजसम्मानं सद्यो याति न संशयः ॥ १०१ ॥ इति श्री सन्तान गोपाल स्तोत्रम् ॥

Meaning · English summary

A hymn honoring Krishna's names and qualities and praying for children and family wellbeing.

Categories

← Browse prayers