✳ Prayer & Chant

श्री सरस्वती अष्टोत्तरशतनामावली

Sri Saraswathi Ashtottara Satanamavali

Hindi script

ओं सरस्वत्यै नमः । ओं महाभद्रायै नमः । ओं महामायायै नमः । ओं वरप्रदायै नमः । ओं श्रीप्रदायै नमः । ओं पद्मनिलयायै नमः । ओं पद्माक्ष्यै नमः । ओं पद्मवक्त्रकायै नमः । ओं शिवानुजायै नमः । ९ ओं पुस्तकभृते नमः । ओं ज्ञानमुद्रायै नमः । ओं रमायै नमः । ओं परायै नमः । ओं कामरूपायै नमः । ओं महाविद्यायै नमः । ओं महापातकनाशिन्यै नमः । ओं महाश्रयायै नमः । ओं मालिन्यै नमः । १८ ओं महाभोगायै नमः । ओं महाभुजायै नमः । ओं महाभागायै नमः । ओं महोत्साहायै नमः । ओं दिव्याङ्गायै नमः । ओं सुरवन्दितायै नमः । ओं महाकाल्यै नमः । ओं महापाशायै नमः । ओं महाकारायै नमः । २७ ओं महाङ्कुशायै नमः । ओं पीतायै नमः । ओं विमलायै नमः । ओं विश्वायै नमः । ओं विद्युन्मालायै नमः । ओं वैष्णव्यै नमः । ओं चन्द्रिकायै नमः । ओं चन्द्रवदनायै नमः । ओं चन्द्रलेखाविभूषितायै नमः । ३६ ओं सावित्र्यै नमः । ओं सुरसायै नमः । ओं देव्यै नमः । ओं दिव्यालङ्कारभूषितायै नमः । ओं वाग्देव्यै नमः । ओं वसुदायै नमः । ओं तीव्रायै नमः । ओं महाभद्रायै नमः । ओं महाबलायै नमः । ४५ ओं भोगदायै नमः । ओं भारत्यै नमः । ओं भामायै नमः । ओं गोविन्दायै नमः । ओं गोमत्यै नमः । ओं शिवायै नमः । ओं जटिलायै नमः । ओं विन्ध्यवासायै नमः । ओं विन्ध्याचलविराजितायै नमः । ५४ ओं चण्डिकायै नमः । ओं वैष्णव्यै नमः । ओं ब्राह्म्यै नमः । ओं ब्रह्मज्ञानैकसाधनायै नमः । ओं सौदामिन्यै नमः । ओं सुधामूर्त्यै नमः । ओं सुभद्रायै नमः । ओं सुरपूजितायै नमः । ओं सुवासिन्यै नमः । ६३ ओं सुनासायै नमः । ओं विनिद्रायै नमः । ओं पद्मलोचनायै नमः । ओं विद्यारूपायै नमः । ओं विशालाक्ष्यै नमः । ओं ब्रह्मजायायै नमः । ओं महाफलायै नमः । ओं त्रयीमूर्तये नमः । ओं त्रिकालज्ञायै नमः । ७२ ओं त्रिगुणायै नमः । ओं शास्त्ररूपिण्यै नमः । ओं शुम्भासुरप्रमथिन्यै नमः । ओं शुभदायै नमः । ओं स्वरात्मिकायै नमः । ओं रक्तबीजनिहन्त्र्यै नमः । ओं चामुण्डायै नमः । ओं अम्बिकायै नमः । ओं मुण्डकायप्रहरणायै नमः । ८१ ओं धूम्रलोचनमर्दनायै नमः । ओं सर्वदेवस्तुतायै नमः । ओं सौम्यायै नमः । ओं सुरासुरनमस्कृतायै नमः । ओं कालरात्र्यै नमः । ओं कलाधारायै नमः । ओं रूपसौभाग्यदायिन्यै नमः । ओं वाग्देव्यै नमः । ओं वरारोहायै नमः । ९० ओं वाराह्यै नमः । ओं वारिजासनायै नमः । ओं चित्राम्बरायै नमः । ओं चित्रगन्धायै नमः । ओं चित्रमाल्यविभूषितायै नमः । ओं कान्तायै नमः । ओं कामप्रदायै नमः । ओं वन्द्यायै नमः । ओं विद्याधरसुपूजितायै नमः । ९९ ओं श्वेताननायै नमः । ओं नीलभुजायै नमः । ओं चतुर्वर्गफलप्रदायै नमः । ओं चतुराननसाम्राज्यायै नमः । ओं रक्तमध्यायै नमः । ओं निरञ्जनायै नमः । ओं हंसासनायै नमः । ओं नीलजङ्घायै नमः । ओं ब्रह्मविष्णुशिवात्मिकायै नमः । १०८ इति श्री सरस्वत्यष्टोत्तरशतनामावली ।

Meaning · English summary

A litany honoring Saraswati through names expressing knowledge, arts, learning and compassion.

Categories

← Browse prayers