श्री सरस्वती द्वादशनाम स्तोत्रम्
Saraswati Dwadasa Nama Stotram
Hindi script
सरस्वतीमहं वन्दे वीणापुस्तकधारिणीम् ।
हंसवाहसमायुक्तां विद्यादानकरीं मम ॥ १ ॥
प्रथमं भारती नामा द्वितीयं च सरस्वती ।
तृतीयं शारदा देवी चतुर्थं हंसवाहनी ॥ २ ॥
पञ्चमं जगतीख्याता षष्ठं वागीश्वरी तथा ।
कौमारी सप्तमं प्रोक्तमष्टमं ब्रह्मचारिणी ॥ ३ ॥
नवमं बुद्धिधात्री च दशमं वरदायिनी ।
एकादशं क्षुद्रघण्टा द्वादशं भुवनेश्वरी ॥ ४ ॥
ब्राह्मी द्वादश नामानि त्रिसन्ध्यं यः पठेन्नरः ।
सर्वसिद्धिकरी तस्य प्रसन्ना परमेश्वरी ।
सा मे वसतु जिह्वाग्रे ब्रह्मरूपा सरस्वती ॥ ५ ॥
इति श्री सरस्वती द्वादशनाम स्तोत्रम् ॥
Meaning · English summary
A hymn honoring Saraswati through twelve names.