✳ Prayer & Chant

श्री सुब्रह्मण्य पञ्चरत्नम्

Subrahmanya Pancharatnam

Hindi script

षडाननं चन्दनलेपिताङ्गं महोरसं दिव्यमयूरवाहनम् । रुद्रस्यसूनुं सुरलोकनाथं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ १ ॥ जाज्वल्यमानं सुरबृन्दवन्द्यं कुमारधारातट मन्दिरस्थम् । कन्दर्परूपं कमनीयगात्रं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ २ ॥ द्विषड्भुजं द्वादशदिव्यनेत्रं त्रयीतनुं शूलमसी दधानम् । शेषावतारं कमनीयरूपं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ३ ॥ सुरारिघोराहवशोभमानं सुरोत्तमं शक्तिधरं कुमारम् । सुधार शक्त्यायुध शोभिहस्तं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ४ ॥ इष्टार्थसिद्धिप्रदमीशपुत्रं इष्टान्नदं भूसुरकामधेनुम् । गङ्गोद्भवं सर्वजनानुकूलं ब्रह्मण्यदेवं शरणं प्रपद्ये ॥ ५ ॥ यः श्लोकपञ्चकमिदं पठतीह भक्त्या ब्रह्मण्यदेव विनिवेशित मानसः सन् । प्राप्नोति भोगमखिलं भुवि यद्यदिष्टं अन्ते स गच्छति मुदा गुहसाम्यमेव ॥ ६ ॥ इति श्री सुब्रह्मण्य पञ्चरत्नम् ।

Meaning · English summary

Five principal verses praising Subrahmanya and seeking his grace.

Categories

← Browse prayers