✳ Prayer & Chant

श्री सुब्रह्मण्य अष्टकम् (करावलम्ब स्तोत्रम्)

Subrahmanya Karavalamba Ashtakam

Hindi script

हे स्वामिनाथ करुणाकर दीनबन्धो श्रीपार्वतीशमुखपङ्कजपद्मबन्धो । श्रीशादिदेवगणपूजितपादपद्म वल्लीशनाथ मम देहि करावलम्बम् ॥ १ ॥ देवादिदेवसुत देवगणाधिनाथ [नुत] देवेन्द्रवन्द्य मृदुपङ्कजमञ्जुपाद । देवर्षिनारदमुनीन्द्रसुगीतकीर्ते वल्लीशनाथ मम देहि करावलम्बम् ॥ २ ॥ नित्यान्नदाननिरताखिलरोगहारिन् तस्मात्प्रदानपरिपूरितभक्तकाम । [भाग्य] श्रुत्यागमप्रणववाच्यनिजस्वरूप वल्लीशनाथ मम देहि करावलम्बम् ॥ ३ ॥ क्रौञ्चासुरेन्द्रपरिखण्डनशक्तिशूल- -पाशादिशस्त्रपरिमण्डितदिव्यपाणे । [चापादि] श्रीकुण्डलीशधरतुण्डशिखीन्द्रवाह वल्लीशनाथ मम देहि करावलम्बम् ॥ ४ ॥ देवादिदेव रथमण्डलमध्यवेद्य देवेन्द्रपीठनगरं दृढचापहस्तम् । शूरं निहत्य सुरकोटिभिरीड्यमान वल्लीशनाथ मम देहि करावलम्बम् ॥ ५ ॥ हीरादिरत्नमणियुक्तकिरीटहार [हारादि] केयूरकुण्डललसत्कवचाभिरामम् । हे वीर तारक जयाऽमरबृन्दवन्द्य वल्लीशनाथ मम देहि करावलम्बम् ॥ ६ ॥ पञ्चाक्षरादिमनुमन्त्रितगाङ्गतोयैः पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः । पट्‍टाभिषिक्त हरियुक्त परासनाथ वल्लीशनाथ मम देहि करावलम्बम् ॥ ७ ॥ श्रीकार्तिकेय करुणामृतपूर्णदृष्ट्या कामादिरोगकलुषीकृतदुष्टचित्तम् । सिक्त्वा तु मामवकलाधर कान्तिकान्त्या वल्लीशनाथ मम देहि करावलम्बम् ॥ ८ ॥ सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजोत्तमाः । ते सर्वे मुक्तिमायान्ति सुब्रह्मण्य प्रसादतः ॥ ९ ॥ सुब्रह्मण्याष्टकमिदं प्रातरुत्थाय यः पठेत् । कोटिजन्मकृतं पापं तत्‍क्षणादेव नश्यति ॥ १० ॥ इति श्री सुब्रह्मण्याष्टकम् ।

Meaning · English summary

Eight verses seeking the helping hand of Subrahmanya.

Categories

← Browse prayers