✳ Prayer & Chant

श्री सुब्रह्मण्य अष्टोत्तरशतनामावली

Subrahmanya Ashtottara Shatanamavali

Hindi script

ओं स्कन्दाय नमः । ओं गुहाय नमः । ओं षण्मुखाय नमः । ओं फालनेत्रसुताय नमः । ओं प्रभवे नमः । ओं पिङ्गलाय नमः । ओं कृत्तिकासूनवे नमः । ओं शिखिवाहाय नमः । ओं द्विषड्भुजाय नमः । ९ ओं द्विषण्णेत्राय नमः । ओं शक्तिधराय नमः । ओं पिशिताशप्रभञ्जनाय नमः । ओं तारकासुरसंहारिणे नमः । ओं रक्षोबलविमर्दनाय नमः । ओं मत्ताय नमः । ओं प्रमत्ताय नमः । ओं उन्मत्ताय नमः । ओं सुरसैन्यसुरक्षकाय नमः । १८ ओं देवसेनापतये नमः । ओं प्राज्ञाय नमः । ओं कृपालवे नमः । ओं भक्तवत्सलाय नमः । ओं उमासुताय नमः । ओं शक्तिधराय नमः । ओं कुमाराय नमः । ओं क्रौञ्चदारणाय नमः । ओं सेनान्ये नमः । २७ ओं अग्निजन्मने नमः । ओं विशाखाय नमः । ओं शङ्करात्मजाय नमः । ओं शिवस्वामिने नमः । ओं गणस्वामिने नमः । ओं सर्वस्वामिने नमः । ओं सनातनाय नमः । ओं अनन्तशक्तये नमः । ओं अक्षोभ्याय नमः । ३६ ओं पार्वतीप्रियनन्दनाय नमः । ओं गङ्गासुताय नमः । ओं शरोद्भूताय नमः । ओं आहूताय नमः । ओं पावकात्मजाय नमः । ओं जृम्भाय नमः । ओं प्रजृम्भाय नमः । ओं उज्जृम्भाय नमः । ओं कमलासनसंस्तुताय नमः । ४५ ओं एकवर्णाय नमः । ओं द्विवर्णाय नमः । ओं त्रिवर्णाय नमः । ओं सुमनोहराय नमः । ओं चतुर्वर्णाय नमः । ओं पञ्चवर्णाय नमः । ओं प्रजापतये नमः । ओं अहर्पतये नमः । ओं अग्निगर्भाय नमः । ५४ ओं शमीगर्भाय नमः । ओं विश्वरेतसे नमः । ओं सुरारिघ्ने नमः । ओं हरिद्वर्णाय नमः । ओं शुभकराय नमः । ओं वटवे नमः । ओं वटुवेषभृते नमः । ओं पूष्णे नमः । ओं गभस्तये नमः । ६३ ओं गहनाय नमः । ओं चन्द्रवर्णाय नमः । ओं कलाधराय नमः । ओं मायाधराय नमः । ओं महामायिने नमः । ओं कैवल्याय नमः । ओं शङ्करात्मजाय नमः । ओं विश्वयोनये नमः । ओं अमेयात्मने नमः । ७२ ओं तेजोनिधये नमः । ओं अनामयाय नमः । ओं परमेष्ठिने नमः । ओं परब्रह्मणे नमः । ओं वेदगर्भाय नमः । ओं विराट्सुताय नमः । ओं पुलिन्दकन्याभर्त्रे नमः । ओं महासारस्वतावृताय नमः । ओं आश्रिताखिलदात्रे नमः । ८१ ओं चोरघ्नाय नमः । ओं रोगनाशनाय नमः । ओं अनन्तमूर्तये नमः । ओं आनन्दाय नमः । ओं शिखण्डिकृतकेतनाय नमः । ओं डम्भाय नमः । ओं परमडम्भाय नमः । ओं महाडम्भाय नमः । ओं वृषाकपये नमः । ९० ओं कारणोपात्तदेहाय नमः । ओं कारणातीतविग्रहाय नमः । ओं अनीश्वराय नमः । ओं अमृताय नमः । ओं प्राणाय नमः । ओं प्राणायामपरायणाय नमः । ओं विरुद्धहन्त्रे नमः । ओं वीरघ्नाय नमः । ओं रक्तास्याय नमः । ९९ ओं श्यामकन्धराय नमः । ओं सुब्रह्मण्याय नमः । ओं गुहाय नमः । ओं प्रीताय नमः । ओं ब्रह्मण्याय नमः । ओं ब्राह्मणप्रियाय नमः । ओं वंशवृद्धिकराय नमः । ओं वेदवेद्याय नमः । ओं अक्षयफलप्रदाय नमः । १०८ । इति श्रीसुब्रह्मण्याष्टोत्तरशतनामावली ।

Meaning · English summary

A litany of 108 names honoring Subrahmanya.

Categories

← Browse prayers