✳ Prayer & Chant

षडक्षराष्टोत्तरशतनाम स्तोत्रम्

Subrahmanya Shadakshara Ashtottara Shatanama Stotram

Hindi script

शरण्यः शर्वतनयः शर्वाणीप्रियनन्दनः । शरकाननसम्भूतः शर्वरीशमुखः शमः ॥ १ ॥ शङ्करः शरणत्राता शशाङ्कमुकुटोज्ज्वलः । शर्मदः शङ्खकण्ठश्च शरकार्मुकहेतिभृत् ॥ २ ॥ शक्तिधारी शक्तिकरः शतकोट्यर्कपाटलः । शमदः शतरुद्रस्थः शतमन्मथविग्रहः ॥ ३ ॥ रणाग्रणी रक्षणकृद्रक्षोबलविमर्दनः । रहस्यज्ञो रतिकरो रक्तचन्दनलेपनः ॥ ४ ॥ रत्नधारी रत्नभूषो रत्नकुण्डलमण्डितः । रक्ताम्बरो रम्यमुखो रविचन्द्राग्निलोचनः ॥ ५ ॥ रमाकलत्रजामाता रहस्यो रघुपूजितः । रसकोणान्तरालस्थो रजोमूर्ती रतिप्रदः ॥ ६ ॥ वसुदो वटुरूपश्च वसन्तऋतुपूजितः । वलवैरिसुतानाथो वनजाक्षो वराकृतिः ॥ ७ ॥ वक्रतुण्डानुजो वत्सो वरदाभयहस्तकः । वत्सलो वर्षकारश्च वसिष्ठादिप्रपूजितः ॥ ८ ॥ वणिग्रूपो वरेण्यश्च वर्णाश्रमविधायकः । वरदो वज्रभृद्वन्द्यो वन्दारुजनवत्सलः ॥ ९ ॥ नकाररूपो नलिनो नकारयुतमन्त्रकः । नकारवर्णनिलयो नन्दनो नन्दिवन्दितः ॥ १० ॥ नटेशपुत्रो नम्रभ्रूर्नक्षत्रग्रहनायकः । नगाग्रनिलयो नम्यो नमद्भक्तफलप्रदः ॥ ११ ॥ नवनागो नगहरो नवग्रहसुवन्दितः । नववीराग्रजो नव्यो नमस्कारस्तुतिप्रियः ॥ १२ ॥ भद्रप्रदश्च भगवान् भवारण्यदवानलः । भवोद्भवो भद्रमूर्तिर्भर्त्सितासुरमण्डलः ॥ १३ ॥ भयापहो भर्गरूपो भक्ताभीष्टफलप्रदः । भक्तिगम्यो भक्तनिधिर्भयक्लेशविमोचनः ॥ १४ ॥ भरतागमसुप्रीतो भक्तो भक्तार्तिभञ्जनः । भयकृद्भरताराध्यो भरद्वाजऋषिस्तुतः ॥ १५ ॥ वरुणो वरुणाराध्यो वलारातिमुखस्तुतः । वज्रशक्त्यायुधोपेतो वरो वक्षःस्थलोज्ज्वलः ॥ १६ ॥ वस्तुरूपो वशिध्येयो वलित्रयविराजितः । वक्रालको वलयधृत् वलत्पीताम्बरोज्ज्वलः ॥ १७ ॥ वचोरूपो वचनदो वचोऽतीतचरित्रकः । वरदो वश्यफलदो वल्लीदेवीमनोहरः ॥ १८ ॥ इति श्रीसुब्रह्मण्य षडक्षराष्टोत्तरशतनामस्तोत्रम् ।

Meaning · English summary

A hymn honoring Subrahmanya through sacred names associated with his six-syllable invocation.

Categories

← Browse prayers