✳ Prayer & Chant

श्री सूर्याष्टकम्

Surya Ashtakam

Hindi script

साम्ब उवाच । आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर । दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥ १ ॥ सप्ताश्वरथमारूढं प्रचण्डं कश्यपात्मजम् । श्वेतपद्मधरं देवं तं सूर्यं प्रणमाम्यहम् ॥ २ ॥ लोहितं रथमारूढं सर्वलोकपितामहम् । महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥ ३ ॥ त्रैगुण्यं च महाशूरं ब्रह्मविष्णुमहेश्वरम् । महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥ ४ ॥ बृंहितं तेजसां पुञ्जं वायुमाकाशमेव च । प्रभुं च सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥ ५ ॥ बन्धूकपुष्पसङ्काशं हारकुण्डलभूषितम् । एकचक्ररथं देवं तं सूर्यं प्रणमाम्यहम् ॥ ६ ॥ [धरं] तं सूर्यं जगत्कर्तारं महातेजःप्रदीपनम् । महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥ ७ ॥ तं सूर्यं जगतां नाथं ज्ञानविज्ञानमोक्षदम् । महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥ ८ ॥ सूर्याष्टकं पठेन्नित्यं ग्रहपीडाप्रणाशनम् । अपुत्रो लभते पुत्रं दरिद्रो धनवान्भवेत् ॥ ९ ॥ आमिषं मधुपानं च यः करोति रवेर्दिने । सप्तजन्म भवेद्रोगी जन्मजन्म दरिद्रता ॥ १० ॥ स्त्रीतैलमधुमांसानि ये त्यजन्ति रवेर्दिने । न व्याधिः शोकदारिद्र्यं सूर्यलोकं स गच्छति ॥ ११ ॥ इति श्री सूर्याष्टकम् ।

Meaning · English summary

Eight verses praising the Sun's radiance and sustaining presence, followed by a traditional statement of the fruits of recitation.

Categories

← Browse prayers